तदित्येव। धनगणशब्दाभ्यां द्वितीयासमर्थाभ्याम् लब्धा इत्येतस्मिन्नर्थे यत् प्रत्ययो भवति। धन्यः। गण्यः। लब्धा इति तृन्नन्तं, तेन द्वितीया समर्था विभक्तिर् युज्यते।
कथं पुनरत्र द्वितीया समर्थविभक्तिः, यावता "कर्त्तृकर्मणोः कृति" (२।३।
६५) इति षष्ठ()आ भवितव्यम्? इत्याह-- "लब्धेति तृन्नन्तम्" इत्यादि। तृन्नन्तस्य हि प्रयोगे "न लोकाव्ययनिष्षाखलर्थतृनाम्"
२।३।६९ इति षष्ठीप्रतिषेधेन द्वितीया भवति॥